learn Sri Lalita Sahasranama: text and audio (line by line)
श्रीललितासहस्रनामस्तोत्रम् ॥ न्यासः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप्छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । श्रीललितामहात्रिपुरसुन्दरी-प्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ॥ Sahasranam begins ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्-सिंहासनेश्वरी । चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता । रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका । निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा । कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता […]
learn Sri Lalita Sahasranama: text and audio (line by line) Read More »